Saturday, 23 July 2016

नर्मदा अष्टकम् / Narmada Ashtak

To Watch Video Click Here

        ॥ नर्मदा अष्टकम ॥

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
द्विषत्सु पापजातजातकारिवारिसंयुतम् ।

कृतान्तदूतकालभूतभीतिहारिवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥१॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं

कलौ मलौघभारहारि सर्वतीर्थनायकम् ।

सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥२॥

महागभीरनीरपूरपापधूतभूतलं

ध्वनत्समस्तपातकारिदारितापदाचलम् ।

जगल्लये महाभये मृकण्डसूनुहर्म्यदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥३॥

गतं तदैव मे भवं त्वदम्बुवीक्षितं यदा

मृकण्डसूनुशौनकासुरारिसेवि सर्वदा ।

पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥४॥

अलक्षलक्षकिन्नरामरासुरादिपूजितं

सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।

वसिष्ठसिष्टपिप्पलादिकर्दमादिशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥५॥

सनत्कुमारनाचिकेतकश्यपादिषट्पदैः

धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।

रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं

ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।

विरञ्चिविष्णुशङ्करस्वकीयधामवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥७॥

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे

किरातसूतवाडवेषु पण्डिते शठे नटे ।

दुरन्तपापतापहारिसर्वजन्तुशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा

पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।

सुलभ्य देहदुर्लभं महेशधामगौरवं

पुनर्भवा नरा न वै विलोकयन्ति रैरवम् ॥९॥

॥ इति श्री नर्मदा अष्टकम सम्पूर्णम् ॥


















श्री गणेशपंचरत्न स्तोत्रासाठी Click करा.

श्रीगणेश पञ्चरत्नं / मुदा करात्त मोदकं सदा विमुक्ति साधकं


To Watch Video Click Here

||श्री महागणेश पञ्चरत्नं||
मुदा करात्त मोदकं सदा विमुक्ति साधकं
कलाधरावतंसकं विलासि लोक रक्षकम् .
अनायकैक नायकं विनाशितेभ दैत्यकं
नताशुभाशु नाशकं नमामि तं विनायकम् .. १..
नतेतराति भीकरं नवोदितार्क भास्वरं
नमत् सुरारि निर्जरं नताधिकापदुद्धरम् .
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् .. २..
समस्त लोक शंकरं निरास्त दैत्य कुन्जरं
दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् .
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् .. ३..
अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं
पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् .
प्रपञ्चनाश भीषणं धनंजयादि भूषणं
कपोलदानवारणं भजे पुराणवारणम् .. ४..
नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् .
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेकमेव चिन्तयामि सन्ततम् .. ५..
.. फल श्रुती ..
महागणेश पञ्चरत्नं आदरेण योन्ऽवहं
प्रजल्पति प्रभातके हृदि स्मरन्ं गणेश्वरम् .
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ..
इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ..    
       


















श्री नर्मदा अष्टकासाठी Click करा .

Contact Us = +91 9545 214 114